वांछित मन्त्र चुनें

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha | tvaṁ śuṣṇasyāvātiro vadhatrais tvaṁ gā indra śacyed avindaḥ ||

पद पाठ

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ । त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥ ८.९६.१७

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:17 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:17